Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः॥ ॥१॥
स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥ ॥२॥
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः॥ ॥३॥
तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम्॥ ॥४॥
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्॥ ॥५॥
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥ ॥६॥
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम्॥ ॥७॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा॥ ॥८॥
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते॥ ॥९॥
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः॥ ॥१०॥
ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः॥ ॥११॥
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः॥ ॥१२॥
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे॥ ॥१३॥
ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत्॥ ॥१४॥
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः॥ ॥१५॥
ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥ ॥१६॥
स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा॥ ॥१७॥
ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे॥ ॥१८॥
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः॥ ॥१९॥
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः॥ ॥२०॥
स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः॥ ॥२१॥
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥ ॥२२॥
स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः॥ ॥२३॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः॥ ॥२४॥
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्॥ ॥२५॥
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते॥ ॥२६॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः॥ ॥२७॥
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः॥ ॥२८॥
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः॥ ॥२९॥
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः॥ ॥३०॥
स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥ ॥३१॥
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥ ॥३२॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्॥ ॥३३॥
ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम्॥ ॥३४॥
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥ ॥३५॥
स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ।महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम्॥ ॥३६॥
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः॥ ॥३७॥
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ॥३८॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 47

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0