Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
ततः स मध्यंगतमंशुमन्तं ।ज्योत्स्नावितानम् महदुद्वमन्तम् ।ददर्श धीमान् दिवि भानुमन्तम् ।गोष्ठे वृषं मत्तमिव भ्रामन्तम्॥ ॥१॥
लोकस्य पापानि विनाशयन्तम् ।महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तम् ।ददर्श शीताम्शुमथाभियान्तम्॥ ॥२॥
या भाति लक्ष्मीर्भुवि मन्दरस्था ।तथा प्रदोषेषु च सागरस्था ।तथैव तोयेषु च पुष्करस्था ।रराज सा चारुनिशाकरस्था॥ ॥३॥
हम्सो यथा राजतपञ्जरसथः ।सिम्हो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थ ।श्चन्द्रो विबभ्राज तथामभरस्थः॥ ॥४॥
स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धश्^इङ्गो ।रराज चन्द्रह् परिपूर्णशृङ्गः॥ ॥५॥
विनष्टशीताम्बुतुषारपङ्को ।महाग्रहग्राहविनष्टपङ्कः ।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।रराज चन्द्रो भगवान् शशाङ्कः॥ ॥६॥
शीलातलम् प्राप्य यथा मृगेन्द्रो ।महारणम् प्राप्य यथा गजेन्द्रह् ।राज्यम् समासाद्य यथा नरेन्द्र ।स्तथाप्रकाशो विरराज चन्द्रः॥ ॥७॥
प्रकाशचन्द्रोदयनष्टदोषः ।प्रवृत्तरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः ।स्वर्गप्रकाशो भगवान् प्रदोषः॥ ॥८॥
तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तम्चराश्चापि तथा प्रवृत्ता ।विहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ॥९॥
मत्तप्रमत्तानि समाकुलानि ।तथाश्वभद्रासनसम्कुलानि ।वीरः श्रिया चापि समाकुलानि ।ददर्श धीमान् स कपिः कुलानि॥ ॥१०॥
परस्परं चाधिकमाक्षिपन्ति ।भुआम्श्च पीनानधिनिक्षिपन्ति ।मत्तप्रलापानधिकम् क्षिपन्ति ।मत्तानि चान्योन्यमधिक्षिपन्ति॥ ॥११॥
रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।गात्राणि कान्तासु च विक्षिपन्ति ।रूपाअणि चित्राणि च विक्षिपन्ति ।दृढानि चापानि च विक्षिपन्ति॥ ॥१२॥
ददर्श कान्ताश्च समालभन्त्य ।स्तथा परास्तत्र पुनः स्वपन्त्यः ।सुरूपवक्त्राश्च तथा हसन्त्यः ।क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः॥ ॥१३॥
महागजैश्चापि तथा नदद्भिः ।सुपूजितैश्चापि तथा सुसद्भिः ।रराज वीरैश्च विनिःश्वसद्भि ।र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः॥ ॥१४॥
बुद्धिप्रधानान् रुचिराभिधानान् ।सम्श्रद्दधानान् जगतः प्रधानान् ।नानाविधानान् रुचिराभिधानान् ।ददर्श तस्याम् पुरि यातुधानान्॥ ॥१५॥
ननन्द दृष्ट्वा स च तान् सुरूपा ।न्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स तदानुरूपान् ।ददर्श काम्श्चिच्च पुनर्विरूपान्॥ ॥१६॥
ततो वरार्हः सुविशुद्धभावा ।स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।प्रियेषु पानेषु च सक्तभावा ।ददर्श ताराइव सुप्रभावाः॥ ॥१७॥
श्रिया ज्वलन्तीस्त्रपयोगूढा ।निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा ।यथा विहङ्गाः कुसुमोपगूढाः॥ ॥१८॥
अन्याः पुनर्हर्म्यतलोपविष्टा ।स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।भर्तुः प्रिया धर्मपरा निविष्टा ।ददर्श धीमान् मदनाभिविष्टाः॥ ॥१९॥
अप्रावृताः काञ्चनराजिवर्णाः ।काश्चित्परार्थ्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।कान्तप्रहीणारुचिराङ्गवर्णाः॥ ॥२०॥
ततह् प्रियान् प्राप्य मनोभिरामान् ।सुप्रीतियुक्ताः सुमनोभिरामाः ।गृहेषु हृष्टाः परमाभिरामाः ।हरिप्रवीरः स ददर्श रामाः॥ ॥२१॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला ।वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषाणानाम् च ददर्श मालाः ।शतह्रदानामिव चारुमालाः॥ ॥२२॥
न त्वेव सीताम् परमाभिजाताम् ।पथि स्थिते राजकुले प्रजाताम् ।लताम् प्रपुल्लामिव साधु जाताम् ।ददर्श तन्वीम् मनसाभिजाताम्॥ ॥२३॥
सनातने वर्त्मानि सम्निविष्टाम् ।रामेक्षणां तां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥ ॥२४॥
उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।पुरा वरार्होत्तमनिष्ककण्ठीम् ।सुजातपक्ष्मामभिरक्तकण्ठीम् ।वनेऽप्रनृत्तामिव नीलकण्ठीम्॥ ॥२५॥
अव्यक्तरेखामिव चन्द्ररेखां ।पाम्सुप्रदिग्धामिव हेमरेखाम् ।क्षतप्ररूढामिव बाणरेखां ।वायुप्रभिन्नामिव मेघरेक्षाम्॥ ॥२६॥
सीतामपश्यन् मनुजेश्वरस्य ।रामस्य पत्नीम् वदताम् वरस्य ।बभूव दुःखाभिहतश्चिरस्य ।प्लवङ्गमो मन्द इवाचिरस्य॥ ॥२७॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 5

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0