Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Sundara Kanda
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्॥ ॥१॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः॥ ॥२॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु॥ ॥३॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः॥ ॥४॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्॥ ॥५॥
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः॥ ॥६॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन्॥ ॥७॥
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः॥ ॥८॥
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः॥ ॥९॥
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्॥ ॥१०॥
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः॥ ॥११॥
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता॥ ॥१२॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम्॥ ॥१३॥
लङ्का चारयितव्या वै पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः॥ ॥१४॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये॥ ॥१५॥
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः॥ ॥१६॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्॥ ॥१७॥
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्॥ ॥१८॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।हनुमांश्चारयामास राक्षसानां महापुरीम्॥ ॥१९॥
अथापश्यद्विमानानि विचित्राणि महाकपिः ।संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्॥ ॥२०॥
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः॥ ॥२१॥
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः॥ ॥२२॥
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः॥ ॥२३॥
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्॥ ॥२४॥
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते॥ ॥२५॥
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसन्तप्ता हुताशनमुपागमत्॥ ॥२६॥
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्॥ ॥२७॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः॥ ॥२८॥
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषो मे शीतो भव हनूमतः॥ ॥२९॥
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः॥ ॥३०॥
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः॥ ॥३१॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः॥ ॥३२॥
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥ ॥३३॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः॥ ॥३४॥
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।दृश्यते च महाज्वालः करोति न च मे रुजम् ।शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः॥ ॥३५॥
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ॥ ॥३६॥
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति॥ ॥३७॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः॥ ॥३८॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः॥ ॥३९॥
उत्पपाताथ वेगेन ननाद च महाकपिः ।पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ॥॥ ॥४०॥
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः॥ ॥४१॥
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्॥ ॥४२॥
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्॥ ॥४३॥
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः॥ ॥४४॥
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली॥ ॥४५॥
End of chapter ॥
1
Valmiki Ramayana · Sundara Kanda

Sarga 53

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0