Valmiki Ramayana · Sundara Kanda
॥ श्रीः ॥
Valmiki Ramayana · Sundara Kanda
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत॥ ॥१॥
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।समीपं गन्तुमस्माभी राघवस्य महात्मनः॥ ॥२॥
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः॥ ॥३॥
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ ॥४॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ ॥५॥
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ ॥६॥
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम्॥ ॥७॥
End of chapter ॥
1
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0