Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः॥ ॥१॥
बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः॥ ॥२॥
भुजैः परमनारीणामभिमृष्टमनेकधा॥ ॥३॥
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम्॥ ॥४॥
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा॥ ॥५॥
तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम्॥ ॥६॥
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम्॥ ॥७॥
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।अद्य मे मरणम् वाथ तरणम् सागरस्य वा॥ ॥८॥
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः॥ ॥९॥
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः॥ ॥१०॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।उपासत तदा रामः सागरम् सरिताम् पतिम्॥ ॥११॥
न च दर्शयते मन्दस् तदा रामस्य सागरः ।प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः॥ ॥१२॥
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम्॥ ॥१३॥
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता॥ ॥१४॥
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम्॥ ॥१५॥
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः॥ ॥१६॥
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः॥ ॥१७॥
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण॥ ॥१८॥
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।सशन्ख शुक्तिका जालम् समीन मकरम् शरैः॥ ॥१९॥
अद्य युद्धेन महता समुद्रम् परिशोषये ।क्षमया हि समायुक्तम् माम् अयम् मकर आलयः॥ ॥२०॥
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।स दर्शयति साम्ना मे सागरो रूपमात्मनः॥ ॥२१॥
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः॥ ॥२२॥
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम्॥ ॥२३॥
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम्॥ ॥२४॥
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन्॥ ॥२५॥
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः॥ ॥२६॥
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम्॥ ॥२७॥
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।स बभूव महाघोरः समारुत रवस् तदा॥ ॥२८॥
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः॥ ॥२९॥
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।दानवाः च महावीर्याः पाताल तल वासिनः॥ ॥३०॥
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः॥ ॥३१॥
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः॥ ॥३२॥
ततस्तु तम् राघव मुग्रवेगम् ।प्रकर्षमाणम् ध्मरप्रमेयम् ।सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।मामेति चोक्त्वा धनुराललम्बे॥ ॥३३॥
एतद्विनापि ह्युदधेस्तवार्य ।सम्पत्स्यते वीरतमस्य कार्यम् ।भवद्विधाः क्रोधवशम् न यान्ति ।दीर्घम् भवान्पश्यतु साधुवृत्तम्॥ ॥३४॥
अन्तर्हितैश्चापि तथान्तरिक्षे ।ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।शब्दः कृतः कष्टमिति ब्रुवद्भि ।र्मा मेति चोक्त्वा महता स्वरेण॥ ॥३५॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 21

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0