Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोहत्ससुग्रीवो हरियूथैः समन्वितः॥ ॥१॥
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा॥ ॥२॥
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ।तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम्॥ ॥३॥
श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम्॥ ॥४॥
वीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्॥ ॥५॥
शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संचन्नं मेघराशिमिवाम्बरे॥ ॥६॥
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः॥ ॥७॥
क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले॥ ॥८॥
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः॥ ॥९॥
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा॥ ॥१०॥
इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि॥ ॥११॥
समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः ।सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि॥ ॥१२॥
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः॥ ॥१३॥
परस्परं स्वेदविदिग्धगात्रौ ।परस्परम् शोणितरक्तदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ ।परस्परं शाल्मलिकिंशुकाविव॥ ॥१४॥
मुष्टिप्रहारैश्च तलप्रहारै ।ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं ।महाबलौ राक्षसवानरेन्द्रौ॥ ॥१५॥
कृत्वा नियुद्धं भृशमुग्रवेगौ ।कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ ।पादक्रमाद्गोपुरवेदिलग्नौ॥ ॥१६॥
अन्योन्यमापीड्य विलग्नदेहौ ।तौ पेतुतुः पालनिखातमध्ये ।उत्पेततुर्भूमितलम् स्पृशन्तौ ।स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ॥ ॥१७॥
आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः ।संयोजयामासतुराहवे तौ ।सम्रम्भशिक्षाबलसम्प्रयुक्तौ ।सुचेरतुः सम्प्रति युद्धमार्गे॥ ॥१८॥
शार्दूलसिंहविव जातदंष्ट्रौ ।गजेन्द्रपोताविव संप्रयुक्तौ ।संहत्य संवेद्य च तौ कराभ्यां ।तऊ पेतुतुर्वै युगपद्धरायाम्॥ ॥१९॥
उद्यम्य चान्योन्यमधिक्षिपन्तौ ।संचक्रमाते बहु युद्धमार्गे ।व्यायामशिक्षाबलसंप्रयुक्तौ ।क्लमं न तौ जग्मतुराशु वीरौ॥ ॥२०॥
बाहुत्तमैर्वारणवारणाभै ।र्निवारयन्तौ परवारणाभौ।चिरेण कालेन भृशं प्रयुद्धौ ।संचेरतुर्मण्डलमार्गमाशु॥ ॥२१॥
तौ परस्पर मासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः॥ ॥२२॥
मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च॥ ॥२३॥
तीर्शीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम्॥ ॥२४॥
अभिद्रवणमाप्लावमवस्थानं सविग्रहम् ।परावृत्तमपावृत्तमपद्रुतमवप्लुतम्॥ ॥२५॥
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः॥ ॥२६॥
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः॥ ॥२७॥
उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः॥ ॥२८॥
अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति ।र्निशिचरपतिमाजौ योजयित्वा श्रमेण ।गगनमतिविशालं लङ्घयित्वार्कसूम ।र्हरिगणबलमध्ये रामपार्श्वं जगाम्॥ ॥२९॥
स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा ।पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं ।तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः॥ ॥३०॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 40

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0