Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना॥ ॥१॥
अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी॥ ॥२॥
तेन वानर मात्रेण दृष्टा सीता च जानकी ।प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः॥ ॥३॥
आविला च पुरी लंका सर्वा हनुमता कृता ।किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम्॥ ॥४॥
उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः॥ ॥५॥
तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः॥ ॥६॥
तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये॥ ॥७॥
मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत्॥ ॥८॥
दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः॥ ॥९॥
एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम्॥ ॥१०॥
करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः॥ ॥११॥
एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा॥ ॥१२॥
मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये॥ ॥१३॥
पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते॥ ॥१४॥
न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः॥ ॥१५॥
कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।वानराणाम् हि वीराणाम् सहस्रैः परिवारितः॥ ॥१६॥
रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम्॥ ॥१७॥
तरसा युक्त रूपेण सानुजः सबल अनुगः ।समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥ ॥१८॥
तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम॥ ॥१९॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 6

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0