Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः॥ ॥१॥
तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक्॥ ॥२॥
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम्॥ ॥३॥
पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्॥ ॥४॥
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः॥ ॥५॥
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।परिवार्य हनूमन्तमन्वयुश्च महाहवे॥ ॥६॥
स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्॥ ॥७॥
स राक्षसानां कदनं चकार सुमहाकपिः।वृतो वानरसैन्येन कालान्तकयमोपमः॥ ॥८॥
स तु कोपेन चाविष्टः शोकेन च महाकपिः।हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम्॥ ॥९॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।विधेयाश्वसमायुक्तः सुदूरमपवाहितः॥ ॥१०॥
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता॥ ॥११॥
पातितायां शिलायां तु रक्षसां व्यथिता चमूः।निपतन्त्या च शिलया राक्षसा मथिता भृशम्॥ ॥१२॥
तमभ्यधावञ्छतशो नदन्तः काननौकसः॥ ॥१३॥
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः॥ ॥१४॥
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः॥ ॥१५॥
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे॥ ॥१६॥
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ॥ ॥१७॥
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः॥ ॥१८॥
शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा॥ ॥१९॥
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम्॥ ॥२०॥
स निवार्य परानीकमब्रवीत्तान् वनौकसः।हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम्॥ ॥२१॥
त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा॥ ॥२२॥
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्॥ ॥२३॥
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्।शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत॥ ॥२४॥
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम्॥ ॥२५॥
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित्॥ ॥२६॥
यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।हूयमानः प्रजज्वाल मांसशोणितभुक् तदा॥ ॥२७॥
सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः॥ ॥२८॥
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः॥ ॥२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः॥ ॥३०॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 82

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0