Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Yuddha Kanda
महोदरे तु निहते महापार्श्वो महाबलः।सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः॥ ॥१॥
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।पातयामास कायेभ्यः फलं वृन्तादिवानिलः॥ ॥२॥
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः।वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत्॥ ॥३॥
ते ऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।विषादविमुखाः सर्वे बभूवुर्गतचेतसः॥ ॥४॥
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि॥ ॥५॥
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्॥ ॥६॥
स तु तेन प्रहारेण महापार्श्वो विचेतनः।ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि॥ ॥७॥
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात्॥ ॥८॥
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम्।अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम्॥ ॥९॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत॥ ॥१०॥
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः॥ ॥११॥
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः॥ ॥१२॥
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम्।दूरस्थितस्य परिघं रविरश्मिसमप्रभम्॥ ॥१३॥
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः॥ ॥१४॥
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्॥ ॥१५॥
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले॥ ॥१६॥
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।करेणैकेन जग्राह सुमहान्तं परश्वधम्॥ ॥१७॥
तं तैलधौतं विमलं शैलसारमयं दृढम्।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्॥ ॥१८॥
तेन वामांसफलके भृशं प्रत्यवपादितम्।अङ्गदो मोक्षयामास सरोषः स परश्वधम्॥ ॥१९॥
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः।संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः॥ ॥२०॥
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्॥ ॥२१॥
तेन तस्य निपातेन राक्षसस्य महामृधे।पफाल हृदयं चाशु स पपात हतो भुवि॥ ॥२२॥
तस्मिन्निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।अभवच्च महान् क्रोधः समरे रावणस्य तु॥ ॥२३॥
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः।स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्॥ ॥२४॥
महेन्द्रेणेव देवानां नादः समभवन्महान्॥ ॥२५॥
अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम्।श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखो ऽवतस्थे॥ ॥२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनशततमः सर्गः॥ ॥२७॥
End of chapter ॥
1
Valmiki Ramayana · Yuddha Kanda

Sarga 99

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0