Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत्॥ ॥१॥
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात्॥ ॥२॥
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल॥ ॥३॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।न्यवेदयत रामाय तापसं तं समागतम्॥ ॥४॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः॥ ॥५॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत्॥ ॥६॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः॥ ॥७॥
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्॥ ॥८॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे॥ ॥९॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः॥ ॥१०॥
तमुवाच ततो रामः स्वागतं ते महामुने ।प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः॥ ॥११॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे॥ ॥१२॥
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे॥ ॥१३॥
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय॥ ॥१४॥
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः॥ ॥१५॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।तमुवाच मुने वाक्यं कथयस्वेति राघवः॥ ॥१६॥
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते॥ ॥१७॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 103

0
Sarga 103Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0