Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत्॥ ॥१॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।शरणं भव वीराणां यक्षाणां युद्धशालिनाम्॥ ॥२॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत्॥ ॥३॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन्॥ ॥४॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः॥ ॥५॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन्॥ ॥६॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।महोदरेण चानिन्द्यं सहस्रमपरं हतम्॥ ॥७॥
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।निमेषान्तरमात्रेण द्वे सहस्रे निपातिते॥ ॥८॥
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि॥ ॥९॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।मुसलेनोरसि क्रोधात्तडितो न च कम्पितः॥ ॥१०॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह॥ ॥११॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः॥ ॥१२॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः॥ ॥१३॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम्॥ ॥१४॥
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत॥ ॥१५॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः॥ ॥१६॥
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।उवाच वचनं धीमान्युक्तं पैतामहे कुले॥ ॥१७॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः॥ ॥१८॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।स तस्य परिणामान्ते जानीते कर्मणः फलम्॥ ॥१९॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे॥ ॥२०॥
मातरं पितरं यो हि आचार्यं चावमन्यते ।स पश्यति फलं तस्य प्रेतराजवशं गतः॥ ॥२१॥
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम्॥ ॥२२॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत्॥ ॥२३॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।तस्मादात्मापघातार्थं मूढः पापं करिष्यति॥ ॥२४॥
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते कर्म तादृशं फलमश्नुते॥ ॥२५॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः॥ ॥२६॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः॥ ॥२७॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः॥ ॥२८॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः॥ ॥२९॥
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ॥ ॥३०॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत्॥ ॥३१॥
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।रूपाणां शतसाहस्रं विनाशाय चकार च॥ ॥३२॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः॥ ॥३३॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।प्रतिगृह्य ततो राम महदस्त्रं दशाननः॥ ॥३४॥
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।एवं स तेनाभिहतो विह्वलः शोणितोक्षितः॥ ॥३५॥
कृत्तमूल इवाशोको निपपात धनाधिपः॥ ॥३६॥
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम्॥ ॥३७॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।पुष्पकं तस्य जग्राह विमानं जयलक्षणम्॥ ॥३८॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम्॥ ॥३९॥
मनोजवं कामगमं कामरूपं विहङ्गमम् ।मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम्॥ ॥४०॥
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम्॥ ॥४१॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम्॥ ॥४२॥
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः॥ ॥४३॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत्॥ ॥४४॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः॥ ॥४५॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 15

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0