Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा॥ ॥१॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः॥ ॥२॥
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा॥ ॥३॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै॥ ॥४॥
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।जगतीन्द्रजिदित्येव परिख्यातो भविष्यति॥ ॥५॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे॥ ॥६॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः॥ ॥७॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।अमरत्वमहं देव वृणे यद्येष मुच्यते॥ ॥८॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम्॥ ॥९॥
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम्॥ ॥१०॥
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम्॥ ॥११॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम्॥ ॥१२॥
्वं हि कस्यचित्प्राणिनो भुवि ।अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे॥ ॥१३॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः॥ ॥१४॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः॥ ॥१५॥
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम्॥ ॥१६॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्॥ ॥१७॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः॥ ॥१८॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः॥ ॥१९॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम्॥ ॥२०॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः॥ ॥२१॥
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम्॥ ॥२२॥
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्॥ ॥२३॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत्॥ ॥२४॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।अहल्येति मया शक्र तस्या नाम प्रवर्तितम्॥ ॥२५॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत्॥ ॥२६॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरन्दर॥ ॥२७॥
सा मया न्यासभूता तु गौतमस्य महात्मनः ।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह॥ ॥२८॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा॥ ॥२९॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव॥ ॥३०॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा॥ ॥३१॥
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम्॥ ॥३२॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि॥ ॥३३॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि लोकेषु भविष्यति न संशयः॥ ॥३४॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।न च ते स्थावरं स्थानं भविष्यति न संशयः॥ ॥३५॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत्॥ ॥३६॥
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः॥ ॥३७॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।तस्माद्रूपवती लोके न त्वमेका भविष्यति॥ ॥३८॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः॥ ॥३९॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।सा तं प्रसादयामास महर्षिं गौतमं तदा॥ ॥४०॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि॥ ॥४१॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः॥ ॥४२॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि॥ ॥४३॥
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि॥ ॥४४॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम्॥ ॥४५॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम्॥ ॥४६॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव॥ ॥४७॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः॥ ॥४८॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः सन्निहितश्चैव आर्यकेण महोदधौ॥ ॥४९॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट्॥ ॥५०॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः॥ ॥५१॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा॥ ॥५२॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम्॥ ॥५३॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे॥ ॥५४॥
एवं राम समुद्भूतो रावणो लोककण्टकः ।सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः॥ ॥५५॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 30

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0