Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
एवमास्ते महाबाहुरहन्यहनि राघवः ।प्रशासत्सर्वकार्याणि पौरजानपदेषु च॥ ॥१॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह॥ ॥२॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।भवतस्तेजसोग्रेण रावणो निहतो मया॥ ॥३॥
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः॥ ॥४॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव ।भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति॥ ॥५॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च॥ ॥६॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै ।दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च॥ ॥७॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम्॥ ॥८॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह॥ ॥९॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ॥ ॥१०॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।तस्माद्गमनमद्यैव रोचते तव पार्थिव॥ ॥११॥
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।धनमादाय विपुलं रत्नानि विविधानि च॥ ॥१२॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति॥ ॥१३॥
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम्॥ ॥१४॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः॥ ॥१५॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्॥ ॥१६॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।उद्योगश्च कृतो राजन्भरतेन त्वया सह॥ ॥१७॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम्॥ ॥१८॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्॥ ॥१९॥
विसर्जयामास तदा कौसल्यानन्दवर्धनः ।राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।वाराणसीं ययौ तूर्णं राघवेण विसर्जितः॥ ॥२०॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम्॥ ॥२१॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा॥ ॥२२॥
युष्माकं चानुभावेन तेजसा च महात्मनाम् ।हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः॥ ॥२३॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः ।रावणः सगणो युद्धे सपुत्रामात्यबान्धवः॥ ॥२४॥
भवन्तश्च समानीता भरतेन महात्मना ।श्रुत्वा जनकराजस्य काननात्तनयां हृताम्॥ ॥२५॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः॥ ॥२६॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः॥ ॥२७॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।एष नः परमः काम एषा नः पीतिरुत्तमा॥ ॥२८॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्॥ ॥२९॥
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ।प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम्॥ ॥३०॥
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ।वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा॥ ॥३१॥
बाढमित्येव राजानो हर्षेण परमान्विताः ।उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः॥ ॥३२॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान्॥ ॥३३॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 38

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0