Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः॥ ॥१॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।सुराजः कालियो भद्रो दन्तवक्रः सुमागधः॥ ॥२॥
एते कथा बहुविधाः परिहाससमन्विताः ।कथयन्ति स्म संहृष्टा राघवस्य महात्मनः॥ ॥३॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च॥ ॥४॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम्॥ ॥५॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च॥ ॥६॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम्॥ ॥७॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ॥ ॥८॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।कथयस्व यथातत्त्वं सर्वं निरवशेषतः॥ ॥९॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च॥ ॥१०॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।कथयन्ति यथा पौराः पापा जनपदेषु च॥ ॥११॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः॥ ॥१२॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च॥ ॥१३॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः॥ ॥१४॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः॥ ॥१५॥
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्॥ ॥१६॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम्॥ ॥१७॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते॥ ॥१८॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते॥ ॥१९॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।नगरेषु च सर्वेषु राजञ्जनपदेषु च॥ ॥२०॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम्॥ ॥२१॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः॥ ॥२२॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।विसर्जयामास तदा वयस्याञ्छत्रुसूदनः॥ ॥२३॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 43

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0