Valmiki Ramayana, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateValmiki Ramayana · Uttara Kanda
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्॥ ॥१॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।हतः पुरुषशार्दूल वरं वरय सुव्रत॥ ॥२॥
वरदास्तु महाबाहो सर्व एव समागताः ।विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः॥ ॥३॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्॥ ॥४॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः॥ ॥५॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।भविष्यति पुरी रम्या शूरसेना न संशयः॥ ॥६॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत्॥ ॥७॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।निवेशनं च शत्रुघ्नः श्रावणेन समारभत्॥ ॥८॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।निविष्टा शूरसेनानां विषयश्चाकुतोभयः॥ ॥९॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।अरोगवीरपुरुषा शत्रुघ्नभुजपालिता॥ ॥१०॥
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता॥ ॥११॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम्॥ ॥१२॥
आरामैश्च विहारैश्च शोभमानं समन्ततः ।शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः॥ ॥१३॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।नानादेशागतैश्चापि वणिग्भिरुपशोभिताम्॥ ॥१४॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्॥ ॥१५॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते॥ ॥१६॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः॥ ॥१७॥
End of chapter ॥
1
Valmiki Ramayana · Uttara Kanda

Sarga 70

0
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0